samartha समर्थ

Definition: having an identical sense; cf प्रोपाभ्या समर्थाभ्याम् । ...तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता । आदिकर्मणि । Kas. on P. I. 3. 42: (2) mutually connected in meaning in such a way that the meanings are connected together or commixed together; समर्थः शक्वः । विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्यः । अथवा समर्थपदाश्रयत्वात्समर्थः । समर्थानां पदानां संबद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः । Kas. on P. II. 1. I; cf. also एकार्थीभावो व्यपेक्षा वा सामर्थ्यम्;। (3) connected with relationship of senses, as between the activity and the subject,object, instrument etc., or as between the master and the servant or the Possessor and the possessed; cf. राज्ञः पुरुषः or ग्रामं गच्छति,or सर्पिः पिब, but not सर्पिः पिब in the sentence तिष्ठतु सर्पिः पिब त्वमुदकम् ।; (4) capable of expressing the sense e. g. a word with the sandhis well observed; cf. समर्थानां प्रथमाद्वा । सामर्थ्ये परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् । S. K. on IV. I. 82; cf also समर्थः पटुः शक्तः इति पर्यायाः। शक्तत्वं च कार्योत्पादनयोम्यत्वम् etc. Balamanorama on the above.


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: